मौसलपर्व

Bharata Mausalaparva
मौसलपर्व
अध्यायः 001
प्रजापालनेन निजनगरे भ्रातृभिः सह सुखनिवासिना युधिष्ठिरेण कदाचनाशुभसूचकोत्पातदर्शनम्॥ 1॥ ततः कालन्तरे सबलकृष्णानां सर्वयादवानां परस्परं मौसलप्रहारेण निश्शेषनिधनश्रवणम्॥ 2॥
श्रीवेदव्यासाय नमः। नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ वैशम्पायन उवाच। षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवन्दनः। ददर्श विपरीतानि निमित्तानि युधिष्टिरः॥ ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः। अपसव्यानि शकुना मण्डलानि प्रचक्रिरे॥ प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः। उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि॥ आदित्यो रजसा राजन्समवच्छन्नमण्डलः। विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः॥ परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसूर्ययोः। त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः॥ एते चान्ये च बहव उत्पाता भयशंसिनः। दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति॥ `यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि। पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ॥’ कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः। शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम्॥ विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः। समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत॥ परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्। वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवा भृशम्॥ निधनं वासुदेवस्य समुद्रस्येव शोषणम्। वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः॥ मौसलं ते समाश्रित्य दुःखशोकसमन्विताः। विष्ण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन्॥॥
इति श्रीमन्महाभारते मौसलपर्वणि प्रथमोऽध्यायः॥ 1॥
Loading…