नरसिंहनखस्तुतिः

पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा-[1] कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः। श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः॥ *॥[2]
लक्ष्मीकान्त समन्ततो विकलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः। यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुर- त्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता नरसिंहनखस्तुतिः॥

पाठान्तरविषयकटिप्पण्यः

  1. प्राचीनकोशे पद्यद्वयमेकत्र न पठ्यते, नापि नखस्तुतिनाम्नेति गोविन्दाचार्याः। किन्तु प्रथमं पद्यं द्वादशस्तोत्रेषु पञ्चमत्वेन, द्वितीयं चान्यत्रेति च ↩
  2. “नाकिवृन्दैः॥ *” – इति कृ पाठः, “भूरिभागैः॥ *”- इति गो पाठः ↩