स्वर्गारोहणपर्व
अध्यायः 001
स्वर्गं गतेन युधिष्ठिरेण तत्र महासमुच्छ्रयेण शोभमानदुर्योधनदर्शनम्॥ 1॥ तथा तदुस्कर्षासहिष्णुतया तदीयदोषोद्घाटनेन तेन सह स्वन स्वर्गवासानभिरोचननिवेदनपूर्वकं नारदं प्रति स्वस्य भ्रात्रादिदिदृक्षानिवेदनम्॥ 2॥
श्रीवेदव्यासाय नमः।
नारायणं नस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
जनमेजय उवाच।
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः।
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे॥
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः।
महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा॥
वैशम्पायन उवाच।
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः।
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु॥
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः।
दुर्योधनं श्रिया जुष्टं ददर्शाऽऽसीनमासने॥
भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम्।
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः॥
ततो युधिष्ठिरो राजा दुर्योधनममर्षितः।
सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने॥
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै।
सहितः कामये लोकाँल्लब्धेनादीर्घदर्शिना॥
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा।
हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने॥
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी।
पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ॥
अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्।
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम॥
नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव।
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति॥
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन।
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम॥
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह।
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः।
वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम्।
यूयं सर्वे सुरसमा येन युद्धेन बाधिताः॥
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्।
भये महति योऽभीतो बभूव पृथिवीपतिः॥
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्।
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि॥
ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः।
सङ्ग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि॥
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै।
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप॥
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः।
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह॥
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः।
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः॥
यत्कृते पृथिवी नष्टा सहसा सनरद्विपा।
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः॥
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः।
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः।
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्॥
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम्।
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्॥
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः।
क्वनु ते पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद॥
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्।
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः।
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद॥॥
इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि प्रथमोऽध्यायः॥ 1॥
Loading…