विषयानुक्रमणिका
उपोद्घातः
ॐ शं नो मित्रः शं वरुणः।
शं नो भवत्वर्यमा।
शं न इन्द्रो बृहस्पतिः।
शं नो विष्णुरुरुक्रमः।
नमो ब्रह्मणे।
नमस्ते वायो।
त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि।
ऋतं वदिष्यामि।
सत्यं वदिष्यामि।
तन्मामवतु।
तद्व॒क्तारमवतु।
अवतु॒ माम्।
अवतु वक्तारम्।
ओ३म् शान्तिः शान्तिः शान्तिः॥ १/१॥
ॐ॥ सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम्। सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम्॥ *॥
“आदित्यसंस्थिताद् विष्णोः श्रुत्वा ब्रह्मा यथा हरिम्। तुष्टाव तत्प्रकारेण वरुणोक्तेन वै भृगुः। विष्णुमस्तौत् तथा प्राह शन्नोमित्रादिका श्रुतिः। यदुवाच हरिः सूर्यमण्डलस्थः परः पुमान्। ब्रह्मा तदाह वरुणे वरुणो भृगवेऽपितु। शन्नोमित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत्। भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम्। मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः। सुप्रीतः प्रददौ ज्ञानं स्वात्मभक्तिं च शाश्वतीम्॥”
इत्यादि यजुःसंहितायाम्।
“भृगुवाक्यतया वायुनमस्कारादिकं हरिः। प्रोवाच ब्रह्मणे चैवं वचः सुबहुदर्शिषु॥”
इति च॥ १॥
शिक्षावल्ली
शीक्षां व्याख्यास्यामः।
वर्णः स्वरः।
मात्रा बलम्।
साम सन्तानः।
इत्युक्तः शीक्षाध्यायः॥ १/२॥
सह नौ यशः।
सह नौ ब्रह्मवर्चसम्।
अथातः सꣳहिताया उपनिषदं व्याख्यास्यामः।
पञ्चस्वधिकरणेषु।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम्।
ता महासꣳहिता इत्याचक्षते।
अथाधिलोकम्।
पृथिवी पूर्वरूपम्।
द्यौरुत्तररूपम्।
आकाशः सन्धिः॥ १/३॥
वायुः सन्धानम्।
इत्यधिलोकम्।
अथाधिज्यौतिषम्।
अग्निः पूर्वरूपम्।
आदित्य उत्तररूपम्।
आपः सन्धिः।
वैद्युतः सन्धानम्।
इत्यधिज्यौतिषम्।
अथाधिविद्यम्।
आचार्यः पूर्वरूपम्॥ १/४॥
अन्तेवास्युत्तररूपम्।
विद्या सन्धिः।
प्रवचनꣳ सन्धानम्।
इत्यधिविद्यम्।
अथाधिप्रजम्।
माता पूर्वरूपम्।
पितोत्तररूपम्।
प्रजा सन्धिः।
प्रजननꣳ सन्धानम्।
इत्यधिप्रजम्॥ १/५॥
अथाध्यात्मम्।
अधराहनुः पूर्वरूपम्।
उत्तराहनुरुत्तररूपम्।
वाक् सन्धिः।
जिह्वा सन्धानम्।
इत्यध्यात्मम्।
इतीमा महासꣳहिताः।
य एवमेता महासꣳहिता व्याख्याता वेद।
सन्धीयते प्रजया पशुभिः।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन॥ १/६॥
यश्छन्दसामृषभो विश्वरूपः।
छन्दोभ्योऽध्यमृतात् सम्बभूव।
स मेन्द्रो मेधया स्पृणोतु।
अमृतस्य देव धारणो भूयासम्।
शरीरं मे विचर्षणम्।
जिह्वा मे मधुमत्तमा।
कर्णाभ्यां भूरि विश्रुवम्।
ब्रह्मणः कोशोऽसि मेधयाऽपिहितः।
श्रुतं मे गोपाय।
आवहन्ती वितन्वाना॥ १/७॥
कुर्वाणा चीरमात्मनः।
वासाꣳसि मम गावश्च।
अन्नपाने च सर्वदा।
ततो मे श्रियमावह।
लोमशां पशुभिः सह स्वाहा।
आ मा यन्तु ब्रह्मचारिणः स्वाहा।
वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा।
प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा।
दमायन्तु ब्रह्मचारिणः स्वाहा।
शमायन्तु ब्रह्मचारिणः स्वाहा॥ १/८॥
यशो जनेऽसानि स्वाहा।
श्रेयान् वस्यसोऽसानि स्वाहा।
तं त्वा भग प्रविशानि स्वाहा।
स मा भग प्रविश स्वाहा।
तस्मिन् सहस्रशाखे।
निभगाहं त्वयि मृजे स्वाहा।
यथाऽऽपः प्रवता यन्ति।
यथा मासा अहर्जरम्।
एवं मां ब्रह्मचारिणः।
धातरा यन्तु सर्वतः स्वाहा।
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व॥१/९॥
वरणीयो
वर्णः।
स्वरतेस्तु
स्वरः।
मानात् त्राता
मात्रा।
बलरूपः।
समश्च सर्वरूपेषु।
सन्ततः
च।
“वर्णादिवाचकं रूपं ज्ञेयं वर्णादिनामकम्। विष्णोर्वर्णादिसंस्थं च पुंसु तत्तत्क्रियाप्रदम्। नारायणादिरूपाणि लोकादिषु च पञ्चसु। अनिरुद्धावसानानि ध्येयानि चतुरात्मना। वासुदेवादिकान्येव तानि पूर्वोत्तरार्णयोः। संहितायास्तथा सन्धौ सन्धाने चापि कृत्स्नशः। यो वेदैतानि रूपणि सर्वभोगसमन्वितः। प्राप्नोति वैष्णवं स्थानं मुक्तः स्वर्गाभिधं परम्। यो विश्वरूपो भगवांश्च्छन्दसामधिपो हरिः। छन्दोभ्योऽमृतरूपेभ्यः सुव्यक्तस्तदुपासनात्। मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते॥”
इति च।
“वेदावासत्वतो विष्णुर्ब्रह्मकोश इति स्मृतः। भगः षड्गुणपूर्णत्वाद् बहुरूपत्वतो विभुः। सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम्। मुच्यते नात्र सन्देहः सर्वभोगैश्च पूज्यते॥”
इति प्रकॢप्ते।
“आवहन्ती चिरं सर्वभोगान् या श्रीः सनातनी। तां मय्यावह गोविन्द सुशिखण्डोपशोभिताम्॥”
इति च।
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः।
तासामुहस्मै तां चतुर्थीम्।
माहाचमस्यः प्रवेदयते।
मह इति।
तद् ब्रह्म।
स आत्मा।
अङ्गान्यन्या देवताः।
भूरिति वा अयं लोकः।
भुव इत्यन्तरिक्षम्।
सुवरित्यसौ लोकः॥ १/१०॥
मह इत्यादित्यः।
आदित्येन वाव सर्वे लोका महीयन्ते।
भूरिति वा अग्निः।
भुव इति वायुः।
सुवरित्यादित्यः।
मह इति चन्द्रमाः।
चन्द्रमसा वाव सर्वाणि ज्योतीꣳषि महीयन्ते।
भूरिति वा ऋचः।
भुव इति सामानि।
सुवरिति यजूꣳषि॥ १/११॥
मह इति ब्रह्म।
ब्रह्मणा वाव सर्वे वेदा महीयन्ते।
भूरिति वै प्राणः।
भुव इत्यपानः।
सुवरिति व्यानः।
मह इत्यन्नम्।
अन्नेन वाव सर्वे प्राणा महीयन्ते।
ता वा एताश्चतस्रश्चतुर्धा।
चतस्रश्चतस्रो व्याहृतयः।
ता यो वेद।
स वेद ब्रह्म।
सर्वेऽस्मै देवा बलिमावहन्ति॥ १/१२॥
स य एषोऽन्तर्हृदय आकाशः।
तस्मिन्नयं पुरुषो मनोमयः।
अमृतो हिरण्मयः।
अन्तरेण तालुके।
य एष स्तन इवावलम्बते।
सेन्द्रयोनिः।
यत्रासौ केशान्तो विवर्तते।
व्यपोह्य शीर्षकपाले।
भूरित्यग्नौ प्रतितिष्ठति।
भुव इति वायौ॥ १/१३॥
सुवरित्यादित्ये।
मह इति ब्रह्मणि।
आप्नोति स्वाराज्यम्।
आप्नोति मनसस्पतिम्।
वाक्पतिश्चक्षुष्पतिः।
श्रोत्रपतिर्विज्ञानपतिः।
एतत् ततो भवति।
आकाशशरीरं ब्रह्म।
सत्यात्मप्राणारामं मन आनन्दम्।
शान्तिसमृद्धममृतम्।
इति प्राचीनयोग्योपास्व॥ १/१४॥
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः।
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि।
आप ओषधयो वनस्पतय आकाश आत्मा।
इत्यधिभूतम्।
अथाध्यात्मम्।
प्राणो व्यानोऽपान उदानः समानः।
चक्षुः श्रोत्रं मनो वाक् त्वक्।
चर्म माꣳसꣳ स्नावास्थि मज्जा।
एतदधि विधाय ऋषिरवोचत्।
पाङ्क्तं वा इदꣳ सर्वम्।
पाङ्क्तेनैव पाङ्क्तꣳ स्पृणोतीति॥ १/१५॥
“भूरादिव्याहृतीभिस्तु वाच्यं मूर्तिचतुष्टयम्। अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः। वासुदेवो महोनामा त्वनिरुद्धः शिरो मतः। भूर्नामाऽथ भुवोनामा बाहू प्रद्युम्न ईरितः। सङ्कर्षणः सुवर्नामा पादौ तस्य महात्मनः। अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते। निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः। लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः। प्रत्येकशश्चातुरात्म्याच्छोडशात्मा प्रकीर्तितः। महीयते महति च स्वयं स भगवान् हरिः। पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते। नामप्रवृत्तिहेतुत्वान्नाम लोकादिकं हरेः। अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः। ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेः सुतः। अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत्। चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः। यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः। बृहत्वाद् ब्रह्म वेदानां समुदायेऽखिले स्थितः। तत्सम्बन्धाद् वेदराशिर्ब्रह्मशब्देन कीर्तितः। प्रकृष्टनयनात् प्राणोऽपानोऽवाङ् नयनाद्धरिः। विविधं नयनाद् व्यानः सोऽन्नं सर्वोपजीव्यतः। एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः। महाचमसनामाऽसौ यस्मादतिचमत्कृतिः। माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः। एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः। स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन्। सर्वदेवैरतितरां यः सम्यक् षोडशात्मवित्॥”
इति व्याहृतितत्त्वे।
“तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठे द्वे प्रतिष्ठे द्वे एते अक्षरे”शतपथब्राह्मणम् १४/८/६/४
इत्यादिश्रुतेः।
सर्वव्याहृतीनां प्रवेत्ता माहाचमस्यश्चतुर्थीत्वेनैतां प्रवेदयत इति विशेषः।
“भूर्नामा स्फूर्तिरूपत्वाद् भूरिवीर्यत्वतो भुवः। सुवः सुबलरूपत्वान्महः पूर्णत्वतो विभुः। तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात्। स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः। तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः। वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः। स एव सर्ववेदोक्तः सर्वविद्यासु चेश्वरः। प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः। इतिहासः पुराणं च पञ्चरात्रं च सर्वशः। सम्यग् व्याहरणाद् विष्णोः श्रुता व्याहृतयस्त्विति। सर्ववेदोक्तसर्वस्वव्याहृतेर्व्याहृतित्वमु। विशेषेणाहरन्तीमं विष्णुमित्यथवा स्मृताः॥”
इति व्याहृतिसारे।
“य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः। प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः। व्याख्यः सुपर्णरूपत्वात् केशान्ते वर्तते तु यः। सङ्कर्षणः सुपर्णात्मा वासुदेवो व्यपः स्मृतः। यस्माद् व्यपगते स्थाता जगति प्रलये विभुः। अशीर्षककपालोऽसौ कपालादुपरि स्थितः। अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः। प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः। सङ्कर्षणः सुवर्नामा सूर्ये तिष्ठति केशवः। महोनामा वासुदेवो ब्रह्मणि स्थश्चतुर्मुखे। स वासुदेवः स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ। अनिरुद्धे च संव्याप्तस्ततो वागादिनां पतिः। वागादिषु स्थितो नित्यं भवत्येव जनार्दनः। स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः। आकाशवद् व्याप्तदेहः सत्यात्मा गुणपूर्तितः। वायोर्विशेषरमको बलानन्दस्वरूपवान्। ज्ञानानन्दस्वरूपोऽसौ शान्तिनामा सुखोन्नतेः। अन्तगत्वात् स्वतः पूर्तेः समृद्धं तत् प्रकीर्तितम्। इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने॥ प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम्॥”
इति ब्रह्मसारे।
“पृथिव्याद्यं पाङ्क्तषट्कं पाङ्क्तेनैव स्वयं हरिः। नारायणादिरूपेण बलयत्यञ्जसा प्रभुः। इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः॥”
इति तत्त्वसंहितायाम्।
आत्मा अहङ्कारतत्त्वम्॥
ओमिति ब्रह्म।
ओमितीदꣳ सर्वम्।
ओमित्येतदनुकृति ह स्म वा अप्योश्रावयेत्याश्रावयन्ति।
ओमिति सामानि गायन्ति।
ओꣳशोमिति शस्त्राणि शꣳसन्ति।
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति।
ओमिति ब्रह्मा प्रसौति।
ओमित्यग्निहोत्रमनुजानाति।
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति।
ब्रह्मैवोपाप्नोति॥ १/१६॥
“ॐनामा भगवान् विष्णुरधिकोच्चगुणत्वतः। यद्यद् रूपं भगवतस्तदिदं सर्वमेव च। ओमेवाधिकपूर्णत्वात् तस्माद् यज्ञेषु चर्त्विजः। ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम्। अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि। अधिकोच्च महाधाम सूच्च देेवेति चादरात्। प्रतिप्रति गृणात्येनं शंरूपात्युच्चशावन। इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः। एवं स्वाध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा। एवं जानन्त एते तु प्राप्नुवन्त्येव तत् परम्॥”
इति च।
ऋतं च स्वाध्यायप्रवचने च।
सत्यं च स्वाध्यायप्रवचने च।
तपश्च स्वाध्यायप्रवचने च।
दमश्च स्वाध्यायप्रवचने च।
शमश्च स्वाध्यायप्रवचने च।
अग्नयश्च स्वाध्यायप्रवचने च।
अग्निहोत्रं च स्वाध्यायप्रवचने च।
अतिथयश्च स्वाध्यायप्रवचने च।
मानुषं च स्वाध्यायप्रवचने च।
प्रजा च स्वाध्यायप्रवचने च।
प्रजनश्च स्वाध्यायप्रवचने च।
प्रजातिश्च स्वाध्यायप्रवचने च।
सत्यमिति सत्यवचा राथीतरः।
तप इति तपोनित्यः पौरुशिष्टिः।
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः।
तद्धि तपस्तद्धि तपः॥ १/१७॥
ऋतं च स्वाध्यायप्रवचने च
कर्तव्यानि।
प्रवचनं व्याख्यानम्।
यथार्थज्ञानम्
ऋतम्।
तत्पूर्वकं यथार्थवचनं करणं च
सत्यम्।
“ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिः। ध्यानसत्ये पूज्यपूजा तप इत्यभिधीयते॥”
इति शब्दनिर्णये।
सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यत्वात् तयोः सर्वत्रानुषङ्गः।
“मन्त्रो मन्त्रार्थवचनमन्यस्य स्वात्मनोऽपिवा। सर्वकर्मसु कर्तव्यौ सर्वकर्मात्मकौ यतः॥”
इति कर्मतत्त्वे।
आत्मनश्चेन्मनसैवार्थवचनम्।
“मानुषं मानुषो धर्मो देवा अपि हि मानुषे। मनुष्यवत् प्रवर्तन्ते नैवैश्वर्यप्रकाशिनः॥”
इति च।
“प्रजाया रक्षणं चैव पुनः प्रजननं तथा। प्रकृष्टजातिकरणं कर्मभिस्तनये पितुः॥”
इति च।
“सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत्। स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः॥”
इति च।
“यंयं क्रतुमधीते तेनतेनास्येष्टं भवति”तैत्तिरीयारण्यकम् २/१५
इति च श्रुतिः।
“जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः। कुर्यादन्यन्नवा कुर्यान्मैत्रो ब्राह्मण उच्यते॥”भारतम् १२/६०/१२, मनुस्मृतिः २/८७, विष्णुस्मृतिः ५५/२१, विष्णुधर्मोत्तरपुराणम् ३/२७८/२
इति भारते।
“सम्यज्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च। न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः॥”
इति कर्मतत्त्वे।
अहं वृक्षस्य रेरिवा।
कीर्तिः पृष्ठं गिरेरिव।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि।
द्रविणꣳ सवर्चसम्।
सुमेधा अमृतोषितः।
इति त्रिशङ्कोर्वेदानुवचनम्॥१/१८॥
“संसारवृक्षच्छेत्ताऽहं मत्कीर्तिः पर्वतोपमा। अत्युत्कृष्टेन हरिणा पावितोऽस्मि यतः स्फुटम्। वाजिरूपश्च नेता च वाजिनीः सूर्य उच्यते। तत्रस्थो भगवान् विष्णुः सम्प्रोक्तो वाजिनीवसुः। तेनामृतोऽस्मि द्रविणं नित्यानन्दस्वरूपतः। तेनामृतेन सिक्तोऽहं तेन व्याप्तो यतः सदा। इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः॥”
इति यजुर्विवेके।
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति।
सत्यं वद।
धर्मं चर।
स्वाध्यायान्मा प्रमदः।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः।
सत्यान्न प्रमदितव्यम्।
धर्मान्न प्रमदितव्यम्।
कुशलान्न प्रमदितव्यम्।
भूत्यै न प्रमदितव्यम्।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्॥ १/१९॥
देवपितृकार्याभ्यां न प्रमदितव्यम्।
मातृदेवो भव।
पितृदेवो भव।
आचार्यदेवो भव।
अतिथिदेवो भव।
यान्यनवद्यानि कर्माणि।
तानि सेवितव्यानि।
नो इतराणि।
यान्यस्माकं सुचरितानि।
तानि त्वयोपास्यानि॥ १/२०॥
नो इतराणि।
ये के चास्मच्छ्रेयाꣳसो ब्राह्मणाः।
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्।
श्रद्धया देयम्।
अश्रद्धयाऽदेयम्।
श्रिया देयम्।
ह्रिया देयम्।
भिया देयम्।
संविदा देयम्।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्॥ १/२१॥
ये तत्र ब्राह्मणाः सम्मर्शिनः।
युक्ता आयुक्ताः।
अलूक्षा धर्मकामाः स्युः।
यथा ते तत्र वर्तेरन्।
तथा तत्र वर्तेथाः।
अथाभ्याख्यातेषु।
ये तत्र ब्राह्मणाः सम्मर्शिनः।
युक्ता आयुक्ताः।
अलूक्षा धर्मकामाः स्युः।
यथा ते तेषु वर्तेरन्।
तथा तेषु वर्तेथाः।
एष आदेशः।
एष उपदेशः।
एषा वेदोपनिषत्।
एतदनुशासनम्।
एवमुपासितव्यम्।
एवमु चैतदुपास्यम्॥ १/२२॥
शं नो मित्रः शं वरुणः।
शं नो भवत्वर्यमा।
शं न इन्द्रो बृहस्पतिः।
शं नो विष्णुरुरुक्रमः।
नमो ब्रह्मणे।
नमस्ते वायो।
त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम्।
ऋतमवादिषम्।
सत्यमवादिषम्।
तन्मामावीत्।
तद्वक्तारमावीत्।
आवीन्माम्।
आवीद् वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः॥ १/२३॥
संहितायाः पञ्चाधिकरणाभिमानित्वं प्राणादिरूपस्य वायोरपि भवति।
पृथिव्यन्तरिक्षमित्युक्तपाङ्क्तत्वं च।
अत उपक्रमोपसंहारयोः
“त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि”
“त्वामेव प्रत्यक्षं ब्रह्मावादिषम्”
इति युज्यते।
॥ इति शिक्षावल्ली॥
Loading…