विषयानुक्रमणिका
1.
मायावाद-भास्करमतयोः क्रमेण निराकरणम्
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन। उपाधिभेदाद् घटत इति चेत् स स्वभावतः॥ २॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत्। अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता॥ ३॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः। विद्यमानस्य भेदस्य ज्ञापको नैव कारकः॥ ४॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः। ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया॥ ५॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः। एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः॥ ६॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः। दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा॥ ७॥
नानादेहगभोगानुसन्धानं योगिनो यथा। न चेद् भोगानुसन्धानं तदिच्छा योगिनः कुतः॥ ८॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा। सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः॥ ९॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता। तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः॥ १०॥