1.
उभयोरपि साधारणदोषेण दूषणम्
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः। प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा॥ ११॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते। अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते॥ १२॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः।
“सत्यः सो अस्य महिमा”ऋग्वेदसंहिताया ८/३/४
इत्यादिवाक्यान्मृषा नच॥ १४॥
नच वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न।
पाठान्तरविषयकटिप्पण्यः
- “सर्वज्ञत्वा---” इति क्वचित् ↩