1.
उपसंहारः
मायावादतमोव्याप्तमिति तत्त्वदृशा जगत्। भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा॥ १९॥
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये। इन्दिरापतये नित्यानन्दभोजनदायिने॥ २०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमुपाधिखण्डनं [तत्त्वप्रकाशिकापरनामकं] सम्पूर्णम्॥[3]
पाठान्तरविषयकटिप्पण्यः
- “-” - इति कृ पाठः, “नास्ति नारायणसमं न भूतं न भविष्यति”- इति गो पाठः ↩
- “-” - इति कृ पाठः, “एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥”- इति गो पाठः ↩
- “॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमुपाधिखण्डनं सम्पूर्णम्” - इति कृ पाठः, “॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमायावाददूषणं समाप्तम्”- इति गो पाठः ↩