विषयानुक्रमणिका
1.
विरक्तस्य गुरुस्वीकारः
समिच्चर्वाज्यकान् हुत्वा सम्यक् पुरुषसूक्ततः।[1] सर्वेषामभयं दत्वा विरक्तः प्रव्रजेद्धरिम्॥ १ ॥ स्मृत्वा[2] भागवतं शुद्धमाचार्यं शरणं व्रजेत्। अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद् गुरुः परम्॥ २॥

पाठान्तरविषयकटिप्पण्यः

  1. ‘समिच्चर्वाज्यकं’ - पा ↩
  2. “स्मृत्वा (श्रुत्वा)” - इति कृ पाठः, “स्मृत्वा”- इति गो पाठः, ‘स्मृत्वा’ ‘श्रुत्वा’ इत्युभयथाऽपि पठ्यते कृपाठे ↩