विषयानुक्रमणिका
1.
गुरुणा प्रणवाद्युपदेशः
उच्चारयेत् त्रिशस्तारं[1] दक्षिणे श्रवणे तथा। ऋषिच्छन्दोदैवतानि ब्रूयात् तस्य क्रमात् सुधीः॥ ३॥ अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात्। विश्वश्च तैजसः[2] प्राज्ञस्तुर्यश्चाक्षरदेवताः ॥ ४॥
कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च। परञ्ज्योतिः परम्ब्रह्म वासुदेव इति क्रमात्॥ ५॥ अकारादेस्तथा शान्तातिशान्तान्तस्य देवताः। एवमुक्त्वा तु तद्ध्यानं ब्रूयाद् भक्ताय[3] सद्गुरुः॥ ६॥

पाठान्तरविषयकटिप्पण्यः

  1. “उच्चारयेत् त्रिशस्तारं” - इति कृ पाठः, “उच्चारयंस्त्रिशस्तारं”- इति गो पाठः ↩
  2. “विश्वश्च तैजसः” - इति कृ पाठः, “विश्वश्च तैजसः”- इति गो पाठः ↩
  3. “भक्ताय” - इति कृ पाठः, “भक्तस्य”- इति गो पाठः, ‘शिष्याय’ - पा ↩