1.
गुरुणा ध्यानोपदेशः
अष्टपत्रे तु हृत्पद्मे मध्ये सूर्येन्दुवह्निगम्। पीठं तत्पद्ममध्यस्थं नारायणमनामयम्॥ ७ ॥[1]
उद्यदादित्यसङ्काशं तेजसाऽनुपमं सदा। सहस्रेणापि सूर्याणां सज्ज्ञानानन्दरूपिणम्॥ ८॥
अतिरक्ततलं[2] भास्वन्नखव्रातविभूषितम्।[3] वृत्तजङ्घं वृत्तजानुं हस्तिहस्तोरुमीश्वरम्॥ ९॥
महाकटितटाबद्धकाञ्चीपीताम्बरोज्ज्वलम्। सुनिम्ननाभिं त्रिवलिं सुवृत्तोदरबन्धनम्॥ १०॥[4]
विशाळवक्षसं[5] भ्राजत्कौस्तुभामुक्तकन्धरम्। वनमालाधरं हारवैजयन्त्यादिभिर्युतम्॥ ११॥[6]
पृथुदीर्घचतुर्बाहुं चक्रशङ्खगदाम्बुजैः।[7] युक्तमुन्निद्रपद्माक्षं स्फुरन्मकरकुण्डलम्॥ १२॥
पूर्णचन्द्रायुतोद्रिक्तकान्तिमन्मुखपङ्कजम्। सुभ्रुवं सुललाटान्तं किरीटाबद्धमूर्धजम्। निःशेषदुःखदमनं[8] नित्यानन्दं शुचिस्मितम्॥ १३ ॥[9]
विश्वादींश्चैव कृष्णादीनेवम्भूतान् सनातनान्। अभिन्नानेव सततं तस्माद् विष्णोः परात्मनः। वराभयोद्यतकरान् नित्यानन्दैकरूपिणः॥ १४॥
पाठान्तरविषयकटिप्पण्यः
- “तत्पद्ममध्यस्थं” - इति कृ पाठः, “तन्मध्यपद्मस्थं”- इति गो पाठः ↩
- “अतिरक्ततलं” - इति कृ पाठः, “अतिरक्ततळं”- इति गो पाठः ↩
- ‘भास्वन्नखराजिविराजितम्’ - पा ↩
- “सुनिम्ननाभिं त्रिवलिं सुवृत्तोदरबन्धनम्” - इति कृ पाठः, “निम्ननाभिं च त्रिवलिसंवृत्तोदरबन्धनम्”- इति गो पाठः, ‘निम्ननाभिं सुत्रिवलिं’ - पा ↩
- “विशाळवक्षसं” - इति कृ पाठः, “विस्तारिवक्षसं”- इति गो पाठः ↩
- ‘वृतम्’ इति प्रचलितपाठ इति गोविन्दाचार्याः। कृपाठे तु नैवं पठ्यते ↩
- “चक्रशङ्खगदाम्बुजैः” - इति कृ पाठः, “शङ्खचक्रगदाम्बुजैः”- इति गो पाठः ↩
- “निःशेषदुःखदमनं” - इति कृ पाठः, “निःशेषदुःखशमनं”- इति गो पाठः ↩
- ‘नित्यानन्दशुचिस्मितम्’ - पा ↩