विषयानुक्रमणिका
1.
शिष्येण शपथस्वीकारः
एवमुक्त्वा गुरुर्ध्यानं शपथं कारयेत् ततः। न विष्णुं वैष्णवांश्चैव विसृजेयमिति[1] त्रिशः॥ १५॥ नचान्यदेवतासाम्यं[2] तदैक्यमथवा हरेः। चिन्तयेयं मृतौ वाऽपि नचाप्येकत्ववादिभिः॥ १६॥[3] समत्ववादिभिर्वाऽहं सङ्गच्छेयं कदाचन।[4] तन्निन्दकैश्च तद्भक्तनिन्दकैर्वा महामुने॥ १७॥

पाठान्तरविषयकटिप्पण्यः

  1. “वैष्णवांश्चैव विसृजेयमिति” - इति कृ पाठः, “वैष्णवांश्चैवाप्युत्सृजेयमिति”- इति गो पाठः ↩
  2. “नचान्यदेवतासाम्यं” - इति कृ पाठः, “नचान्यदेवसामान्यं”- इति गो पाठः, ‘नचान्यदैवसामान्यं’ - पा ↩
  3. ‘मृतो वाऽपि’ इति प्रचलितपाठ इति गोविन्दाचार्याः। कृपाठे तु नैवं पठ्यते ↩
  4. ‘कथञ्चन’ - पा ↩