विषयानुक्रमणिका
1.
गुरोराशीर्वचनम्
एवं कृते तु शपथे मस्तके हस्तपङ्कजम्। निधायोत्तीर्य संसारात् सुखी भव हरेः प्रियः॥ १८॥ सर्वदुःखदिभिर्मुक्तो नित्यानन्दैकरूपकः।[1] सम्प्राप्य विष्णुसामीप्यं तत्रापि हरिभक्तिमान्॥ १९॥ भक्तिमांश्चान्यदेवेषु[2] तारतम्यं च संस्मरन्।[3] सर्वोत्कर्षं स्मरन् विष्णोर्भूयाश्चैव सदा सुखी॥ २०॥ न मुक्तौ विष्णुनैक्यं वा मुक्तानां साम्यमेव वा। स्मरेथा इति चोक्त्वाऽथ समयाननुशिक्षयेत्[4] ॥ २१॥

पाठान्तरविषयकटिप्पण्यः

  1. नित्यानन्दैकरूपिणः ↩
  2. “भक्तिमांश्चान्यदेवेषु” - इति कृ पाठः, “भक्तिमांश्चाथ देवेषु”- इति गो पाठः ↩
  3. ‘तारतम्यं च सर्वदा’ - पा ↩
  4. “चोक्त्वाऽथ समयाननुशिक्षयेत्” - इति कृ पाठः, “चोक्त्वा तत्समयाननुशिक्षयेत्”- इति गो पाठः, ‘चोक्त्वा तु’ - पा ↩