विषयानुक्रमणिका
1.
गुरोरादेशः
नित्यशश्च हरेः पूजा जपध्यानसमर्पणम्।[1] कर्तव्यं तु[2] त्वया वत्स जपश्च त्रिसहस्रकः॥ २२॥ मध्यमः प्रणवस्योक्तो योऽवरः स सहस्रकः। त्रिसहस्रात् परो यस्तु स उत्तमजपः स्मृतः॥ २३॥ आत्मानं प्रतिबिम्बत्वे ध्यायन् बिम्बं जनार्दनम्। ध्यायस्व सततं[3] वत्स[4] सपर्यां नित्यशः कुरु। मानसैर्वाऽथ[5] पुष्पैर्वा प्रणवेन समाहितः॥ २४॥ अन्यांश्च वैष्णवान् मन्त्राञ्जपेथा भक्तिपूर्वकम्। शृणुष्व वैष्णवं शास्त्रं सदा वेदार्थतत्परः॥ २५॥ वेदान् मन्त्रानुपनिषत्सहितान् सर्वदा शृणु। इतिहासपुराणं[6] च पञ्चरात्रं तथैव च॥ २६॥ तदर्थान् ब्रह्मसूत्रैश्च सम्यङ् निर्णीय तत्त्वतः। विष्णोः सर्वोत्तमत्वं च[7] सर्वदा प्रतिपादय॥ २७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो यतिप्रणवकल्पः सम्पूर्णः॥[8]

पाठान्तरविषयकटिप्पण्यः

  1. “जपध्यानसमर्पणम्” - इति कृ पाठः, “जपध्यानसमर्पया”- इति गो पाठः ↩
  2. “कर्तव्यं तु” - इति कृ पाठः, “कर्तव्यैव”- इति गो पाठः ↩
  3. ‘ध्यायंश्च’ - पा ↩
  4. “वत्स” - इति कृ पाठः, “पुत्र”- इति गो पाठः ↩
  5. “मानसैर्वाऽथ” - इति कृ पाठः, “मानसेनाथ”- इति गो पाठः ↩
  6. “इतिहासपुराणं” - इति कृ पाठः, “इतिहासपुराणे”- इति गो पाठः ↩
  7. “च” - इति कृ पाठः, “तु”- इति गो पाठः ↩
  8. “॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो यतिप्रणवकल्पः सम्पूर्णः” - इति कृ पाठः, “॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः ओन्तत्सत्प्रणवकल्पः समाप्तः”- इति गो पाठः ↩