Category: आचारग्रन्थाः

  • जयन्तीकल्पः

    ☰ − रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी ॥ १॥ यस्यां जातो हरिः साक्षान्निशीथे भगवानजः। तस्मात् तद्दिनमत्यन्तं पुण्यं पापहरं परम्॥ २॥ तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा। द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥ ३॥ यो भुङ्क्ते तद्दिने मोहात् पूयशोणितमत्ति सः। तस्मादुपवसेत् पुण्यं तद्दिनं श्रद्धयाऽन्वितः॥ ४॥ कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः। प्रभातकाले मेधावी…

  • सदाचारस्मृतिः

    ☰ − आदिमङ्गलम् यस्मिन् सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममो याति परं जयति सोऽच्युतः॥ १॥ नित्याचारसङ्ग्रहः स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि। धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः॥ २॥ “उद्धृता”महानारायणोपनिषत् १/३८-४० इति मृदाऽऽलिप्य द्विषडष्टषडक्षरैः। त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा पुनस्तथा॥ ३॥ मृदाऽऽलिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्। स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम्॥ ४॥ यतश्वासो निमग्नोऽप्सु प्रणवेनोत्थितस्ततः। सिञ्चेत् पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन्॥ ५॥ वसित्वा वास आचम्य…

  • यतिप्रणवकल्पः

    ☰ − विरक्तस्य गुरुस्वीकारः समिच्चर्वाज्यकान् हुत्वा सम्यक् पुरुषसूक्ततः। सर्वेषामभयं दत्वा विरक्तः प्रव्रजेद्धरिम्॥ १ ॥ स्मृत्वा भागवतं शुद्धमाचार्यं शरणं व्रजेत्। अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद् गुरुः परम्॥ २॥ गुरुणा प्रणवाद्युपदेशः उच्चारयेत् त्रिशस्तारं दक्षिणे श्रवणे तथा। ऋषिच्छन्दोदैवतानि ब्रूयात् तस्य क्रमात् सुधीः॥ ३॥ अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात्। विश्वश्च तैजसः प्राज्ञस्तुर्यश्चाक्षरदेवताः ॥ ४॥ कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च। परञ्ज्योतिः परम्ब्रह्म…