Category: सूत्रप्रस्थानम्
-
ब्रह्मसूत्राणुभाष्यम्
☰ − प्रथमोऽध्यायः [नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥ *॥] विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः। समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥ प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु। उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥ सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।| विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥ सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः। सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥ ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः। पतित्वादिगुणैर्युक्तस्तदन्यत्र…