Category: दशप्रकरणानि
-
तत्त्वोद्योतः
☰ − मङ्गलाचरणम् ॐ॥ सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः। नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः॥ मुक्तभेदेऽनुमानम् विमतो भिन्नः, मुक्तत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नः। तत्र साध्यविकल्पनिराकरणम् नच भेदे विकल्पो युज्यते। अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव। शशविषाणं गोविषाणं वोच्यत इतिवत्। अनिर्वचनीये प्रमाणाभावोपपादनम् नचानिर्वचनीये किञ्चिन्मानम्। तत्र प्रत्यक्षनिरासः मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च। अनुमाननिरासः अनुमानस्य चाप्रसिद्धविशेषणः पक्षः। नच धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति। नच बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति। आगमनिरासः नच भावाभावविलक्षणं क्वचिदागमो वक्ति।…